Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
ततः कुमारविषये श्रेणिमन्तमथाजयत्कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥१॥
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम्अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥२॥
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान्मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥३॥
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम्सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥४॥
एवं बहुविधान्देशान्विजित्य पुरुषर्षभःउन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम्पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥५॥
स काशिराजं समरे सुबन्धुमनिवर्तिनम्वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥६॥
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः ॥७॥
ततो मत्स्यान्महातेजा मलयांश्च महाबलान्अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥८॥
निवृत्य च महाबाहुर्मदर्वीकं महीधरम्सोपदेशं विनिर्जित्य प्रययावुत्तरामुखःवत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥९॥
भर्गाणामधिपं चैव निषादाधिपतिं तथाविजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥१०॥
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवःतरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥११॥
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुःवैदेहकं च राजानं जनकं जगतीपतिम्विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥१२॥
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ॥१३॥
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान्विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥१४॥
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥१५॥
जारासंधिं सान्त्वयित्वा करे च विनिवेश्य हतैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥१६॥
स कम्पयन्निव महीं बलेन चतुरङ्गिणायुयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥१७॥
स कर्णं युधि निर्जित्य वशे कृत्वा च भारतततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥१८॥
अथ मोदागिरिं चैव राजानं बलवत्तरम्पाण्डवो बाहुवीर्येण निजघान महामृधे ॥१९॥
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम्कौशिकीकच्छनिलयं राजानं च महौजसम् ॥२०॥
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौनिर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥२१॥
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ॥२२॥
सुह्मानामधिपं चैव ये च सागरवासिनःसर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥२३॥
एवं बहुविधान्देशान्विजित्य पवनात्मजःवसु तेभ्य उपादाय लौहित्यमगमद्बली ॥२४॥
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनःकरमाहारयामास रत्नानि विविधानि च ॥२५॥
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥२६॥
स कोटिशतसंख्येन धनेन महता तदाअभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥२७॥
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमःनिवेदयामास तदा धर्मराजाय तद्धनम् ॥२८॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 27

0
Adhyaya 27Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0