Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभशनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥१॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनःन दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥२॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिःस्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥३॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितःदुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥४॥
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥५॥
जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम्वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥६॥
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलःअर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥७॥
नामर्षयत्ततस्तेषामवहासममर्षणःआकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥८॥
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥९॥
द्वारं च विवृताकारं ललाटेन समाहनत्संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥१०॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पतेपाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥११॥
अप्रहृष्टेन मनसा राजसूये महाक्रतौप्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥१२॥
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतःदुर्योधनस्य नृपतेः पापा मतिरजायत ॥१३॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥१४॥
महिमानं परं चापि पाण्डवानां महात्मनाम्दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥१५॥
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन्श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥१६॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदानाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥१७॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषतदुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥१८॥
दुर्योधन उवाच
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥१९॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुलयथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥२०॥
अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम्शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥२१॥
पश्य सात्वतमुख्येन शिशुपालं निपातितम्न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥२२॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निनाक्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥२३॥
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम्सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ॥२४॥
तथा हि रत्नान्यादाय विविधानि नृपा नृपम्उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥२५॥
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवेअमर्षवशमापन्नो दह्येऽहमतथोचितः ॥२६॥
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥२७॥
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान्सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ॥२८॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपियोऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥२९॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् ॥३०॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥३१॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥३२॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबलतच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥३३॥
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम्धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥३४॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥३५॥
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम्अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥३६॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 43

0
Adhyaya 43Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0