Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
जनमेजय उवाच
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥१॥
के च तत्र सभास्तारा राजानो ब्रह्मवित्तमके चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥२॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विजमूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥३॥
सूत उवाच
एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान्आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥४॥
वैशंपायन उवाच
शृणु मे विस्तरेणेमां कथां भरतसत्तमभूय एव महाराज यदि ते श्रवणे मतिः ॥५॥
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतःदुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥६॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसतिन ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥७॥
हितं हि परमं मन्ये विदुरो यत्प्रभाषतेक्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥८॥
देवर्षिर्वासवगुरुर्देवराजाय धीमतेयत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥९॥
तद्वेद विदुरः सर्वं सरहस्यं महाकविःस्थितश्च वचने तस्य सदाहमपि पुत्रक ॥१०॥
विदुरो वापि मेधावी कुरूणां प्रवरो मतःउद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥११॥
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यतेभेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥१२॥
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥१३॥
अधीतवान्कृती शास्त्रे लालितः सततं गृहेभ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥१४॥
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥१५॥
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥१६॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥१७॥
दुर्योधन उवाच
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषःनामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥१८॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभोज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥१९॥
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम्स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥२०॥
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराःकारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥२१॥
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथाअन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥२२॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पतेयुधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥२३॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्नादृश्यत परः प्रान्तो नापरस्तत्र भारत ॥२४॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतःप्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥२५॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥२६॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरःशत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥२७॥
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम्सपत्नेनावहासो हि स मां दहति भारत ॥२८॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम्मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥२९॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम्द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥३०॥
क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताःददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥३१॥
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिपअद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणाअभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥३२॥
तत्र मां यमजौ दूरादालोक्य ललितौ किलबाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥३३॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निवइदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥३४॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मेयानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥३५॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 46

0
Adhyaya 46Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0