Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैःबलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ॥१॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥२॥
स राजगृहमासाद्य कुबेरभवनोपमम्अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥३॥
तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत्पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥४॥
युधिष्ठिर उवाच
विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसिकच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ॥५॥
विदुर उवाच
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैःप्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा ॥६॥
इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं चइयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ॥७॥
समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां चप्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे ॥८॥
दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञातान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व ॥९॥
युधिष्ठिर उवाच
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानःकिं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ॥१०॥
विदुर उवाच
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणेराजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥११॥
युधिष्ठिर उवाच
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैःपृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य ॥१२॥
विदुर उवाच
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षःविविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ॥१३॥
युधिष्ठिर उवाच
महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्तिधात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ॥१४॥
नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम्इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ॥१५॥
न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम्आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे ॥१६॥
वैशंपायन उवाच
एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥१७॥
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत्धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥१८॥
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरःअमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥१९॥
बाह्लिकेन रथं दत्तमास्थाय परवीरहापरिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ॥२०॥
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरःधृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥२१॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौसमियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥२२॥
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण चसमियाय यथान्यायं द्रौणिना च विभुः सह ॥२३॥
समेत्य च महाबाहुः सोमदत्तेन चैव हदुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥२४॥
ये चान्ये तत्र राजानः पूर्वमेव समागताःजयद्रथेन च तथा कुरुभिश्चापि सर्वशः ॥२५॥
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितःप्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥२६॥
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥२७॥
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितःददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥२८॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाःचत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥२९॥
ततो हर्षः समभवत्कौरवाणां विशां पतेतान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥३०॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥३१॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिवस्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥३२॥
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥३३॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताःकल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥३४॥
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथउपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ॥३५॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥३६॥
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाःसभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥३७॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 52

0
Adhyaya 52Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0