Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
विदुर उवाच
महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणुमुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥१॥
यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताःदुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ॥२॥
गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसेदुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥३॥
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यतेआरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥४॥
सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षतेप्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥५॥
विदितं ते महाराज राजस्वेवासमञ्जसम्अन्धका यादवा भोजाः समेताः कंसमत्यजन् ॥६॥
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिनाएवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ॥७॥
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ॥८॥
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन चक्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥९॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१०॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरःइति स्म भाषते काव्यो जम्भत्यागे महासुरान् ॥११॥
हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान्गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ॥१२॥
सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतपआयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ॥१३॥
तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभमोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ॥१४॥
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारतमालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ॥१५॥
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान्मा गमः ससुतामात्यः सबलश्च पराभवम् ॥१६॥
समवेतान्हि कः पार्थान्प्रतियुध्येत भारतमरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥१७॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 55

0
Adhyaya 55Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0