Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
शकुनिरुवाचबहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिरआचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥१॥
युधिष्ठिर उवाच
मम वित्तमसंख्येयं यदहं वेद सौबलअथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥२॥
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम्शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम्एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥३॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥४॥
युधिष्ठिर उवाच
गवाश्वं बहुधेनूकमसंख्येयमजाविकम्यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबलएतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥५॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥६॥
युधिष्ठिर उवाच
पुरं जनपदो भूमिरब्राह्मणधनैः सहअब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं ममएतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥७॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥८॥
युधिष्ठिर उवाच
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताःकुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम्एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥९॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥१०॥
युधिष्ठिर उवाच
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजःनकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ॥११॥
शकुनिरुवाचप्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिरअस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ॥१२॥
वैशंपायन उवाच
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यतजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥१३॥
युधिष्ठिर उवाच
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्चअनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ॥१४॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥१५॥
शकुनिरुवाचमाद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मयागरीयांसौ तु ते मन्ये भीमसेनधनंजयौ ॥१६॥
युधिष्ठिर उवाच
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥१७॥
शकुनिरुवाचगर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छतिज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ॥१८॥
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिरकितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥१९॥
युधिष्ठिर उवाच
यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वीअनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ॥२०॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२१॥
शकुनिरुवाचअयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाचीभीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ॥२२॥
युधिष्ठिर उवाच
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकःतिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ॥२३॥
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनःअनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ॥२४॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२५॥
शकुनिरुवाचबहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥२६॥
युधिष्ठिर उवाच
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथाकुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ॥२७॥
वैशंपायन उवाच
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितःजितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२८॥
शकुनिरुवाचएतत्पापिष्ठमकरोर्यदात्मानं पराजितःशिष्टे सति धने राजन्पाप आत्मपराजयः ॥२९॥
वैशंपायन उवाच
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान्पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ॥३०॥
शकुनिरुवाचअस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितःपणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥३१॥
युधिष्ठिर उवाच
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणीसरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ॥३२॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धयाशारदोत्पलसेविन्या रूपेण श्रीसमानया ॥३३॥
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदातथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥३४॥
चरमं संविशति या प्रथमं प्रतिबुध्यतेआ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥३५॥
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव चवेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ॥३६॥
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्ययाग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥३७॥
वैशंपायन उवाच
एवमुक्ते तु वचने धर्मराजेन भारतधिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥३८॥
चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाःभीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥३९॥
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत्आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ॥४०॥
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनःकिं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥४१॥
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिःइतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ॥४२॥
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटःजितमित्येव तानक्षान्पुनरेवान्वपद्यत ॥४३॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 58

0
Adhyaya 58Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0