Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रःअवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये ॥१॥
त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यःक्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव ॥२॥
एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्यप्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ॥३॥
प्रातिकाम्युवाचयुधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत्सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ॥४॥
द्रौपद्युवाचकथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रःमूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित् ॥५॥
प्रातिकाम्युवाचयदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुःन्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ॥६॥
द्रौपद्युवाचगच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतजकिं नु पूर्वं पराजैषीरात्मानं मां नु भारतएतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ॥७॥
वैशंपायन उवाच
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदाकस्येशो नः पराजैषीरिति त्वामाह द्रौपदीकिं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥८॥
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत्न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥९॥
दुर्योधन उवाच
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम्इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥१०॥
वैशंपायन उवाच
स गत्वा राजभवनं दुर्योधनवशानुगःउवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥११॥
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम्न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि ॥१२॥
द्रौपद्युवाचएवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौधर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ॥१३॥
वैशंपायन उवाच
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥१४॥
एकवस्त्रा अधोनीवी रोदमाना रजस्वलासभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ॥१५॥
ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टःइहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥१६॥
ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाःविहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि ॥१७॥
दुर्योधन उवाच
दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताःस्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ॥१८॥
ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिःप्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥१९॥
एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जाकुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ॥२०॥
ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेणआर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य ॥२१॥
ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानःदीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ॥२२॥
ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताःते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ॥२३॥
स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम्दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम् ॥२४॥
सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मिएकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ॥२५॥
ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम्कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ॥२६॥
रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्राद्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ॥२७॥
प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमानाह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ॥२८॥
इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाःगुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ॥२९॥
नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीःन मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ॥३०॥
धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यःवाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ॥३१॥
इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम्न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ॥३२॥
धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम्यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥३३॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपिराज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ॥३४॥
तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत्सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः ॥३५॥
हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूवयथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ॥३६॥
दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान्आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः ॥३७॥
कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम्गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत् ॥३८॥
सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैवतेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ॥३९॥
भीष्म उवाच
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत्अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥४०॥
त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात्उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ॥४१॥
द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामःन मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥४२॥
द्रौपद्युवाचआहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैःद्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ॥४३॥
स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यःसंभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः ॥४४॥
तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम्समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ॥४५॥
वैशंपायन उवाच
तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान्दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ॥४६॥
तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम्वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ॥४७॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 60

0
Adhyaya 60Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0