Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
जनमेजय उवाच
अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान्पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥१॥
वैशंपायन उवाच
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमताराजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥२॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभदुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥३॥
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौशत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥४॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलःमिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः ॥५॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥६॥
दुर्योधन उवाच
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिःशक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥७॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षणपुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥८॥
ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान्यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥९॥
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान्कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥१०॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाःनिःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥११॥
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधीगाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥१२॥
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरःस्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥१३॥
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम्सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥१४॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥१५॥
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि तेद्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥१६॥
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैःएवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥१७॥
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताःप्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥१८॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥१९॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥२०॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभअयं हि शकुनिर्वेद सविद्यामक्षसंपदम् ॥२१॥
दृढमूला वयं राज्ये मित्राणि परिगृह्य चसारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥२२॥
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम्जेष्यामस्तान्वयं राजन्रोचतां ते परंतप ॥२३॥
धृतराष्ट्र उवाच
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपिआगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥२४॥
वैशंपायन उवाच
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथःविदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥२५॥
भूरिश्रवाः शांतनवो विकर्णश्च महारथःमा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥२६॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥२७॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥२८॥
जाते दुर्योधने क्षत्ता महामतिरभाषतनीयतां परलोकाय साध्वयं कुलपांसनः ॥२९॥
व्यनदज्जातमात्रो हि गोमायुरिव भारतअन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥३०॥
मा बालानामशिष्टानामभिमंस्था मतिं प्रभोमा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ॥३१॥
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम्शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ॥३२॥
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनःशास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥३३॥
न वै वृद्धो बालमतिर्भवेद्राजन्कथंचनत्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥३४॥
शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपाप्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥३५॥
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥३६॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाःपुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥३७॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 66

0
Adhyaya 66Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0