Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिःधार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥१॥
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥२॥
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषःवने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥३॥
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ॥४॥
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥५॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्पतिव्रता महाभागा सततं सत्यवादिनीवनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥६॥
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधनश्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥७॥
वैशंपायन उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिःधार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥८॥
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदाउदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥९॥
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दशरथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥१०॥
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताःगर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्ऊचुर्विगतसंत्रासाः समागम्य परस्परम् ॥११॥
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाःयत्र दुर्योधनः पापः सौबलेयेन पालितःकर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥१२॥
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥१३॥
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनःअर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥१४॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपःसाधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥१५॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवःह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥१६॥
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य चऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥१७॥
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनःवयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥१८॥
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैःउद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥१९॥
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान्कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥२०॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाःशुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥२१॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथापुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥२२॥
मोहजालस्य योनिर्हि मूढैरेव समागमःअहन्यहनि धर्मस्य योनिः साधुसमागमः ॥२३॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिःसद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥२४॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म चतान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥२५॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषुपुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥२६॥
असतां दर्शनात्स्पर्शात्संजल्पनसहासनात्धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥२७॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥२८॥
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाःलोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः ॥२९॥
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाःइच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥३०॥
युधिष्ठिर उवाच
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताःअसतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥३१॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वःनान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥३२॥
भीष्मः पितामहो राजा विदुरो जननी च मेसुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥३३॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतःयुष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः ॥३४॥
निवर्ततागता दूरं समागमनशापिताःस्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥३५॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम्सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥३६॥
वैशंपायन उवाच
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाःचक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥३७॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराःअकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥३८॥
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाःप्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥३९॥
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाःऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचिउदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥४०॥
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयःसाग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाःस तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥४१॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणेब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥४२॥
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराःआश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥४३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 1

0
Adhyaya 1Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0