Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
देवा ऊचुःइतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाःता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ॥१॥
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताःत्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥२॥
इदं च समनुप्राप्तं लोकानां भयमुत्तमम्न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ॥३॥
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यतिततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥४॥
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पतेविनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥५॥
विष्णुरुवाचविदितं मे सुराः सर्वं प्रजानां क्षयकारणम्भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥६॥
कालेय इति विख्यातो गणः परमदारुणःतैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ॥७॥
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमताजीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥८॥
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ॥९॥
न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि तेसमुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥१०॥
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ॥११॥
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥१२॥
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ॥१३॥
देवा ऊचुःनहुषेणाभितप्तानां त्वं लोकानां गतिः पुराभ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥१४॥
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमःवचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥१५॥
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाःत्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥१६॥
अस्माकं भयभीतानां नित्यशो भगवान्गतिःततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥१७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 101

0
Adhyaya 101Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0