Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमयथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ॥१॥
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसःरुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥२॥
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणःबहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ॥३॥
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्सर्वाणि चैव भूतानि शूराः समरशालिनः ॥४॥
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिःब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥५॥
तानुवाच महाभागः सर्वलोकपितामहःगच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥६॥
नातिदीर्घेण कालेन सागराणां क्षयो महान्भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥७॥
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वरपितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥८॥
ततः काले बहुतिथे व्यतीते भरतर्षभदीक्षितः सगरो राजा हयमेधेन वीर्यवान्तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ॥९॥
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥१०॥
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ॥११॥
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥१२॥
ततस्ते सागराः सर्वे समुपेत्य परस्परम्नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥१३॥
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतःससमुद्रवनद्वीपा सनदीनदकन्दरासपर्वतवनोद्देशा निखिलेन मही नृप ॥१४॥
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिवन चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥१५॥
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितःउवाच वचनं सर्वांस्तदा दैववशान्नृप ॥१६॥
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥१७॥
प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाःभूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥१८॥
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्समासाद्य बिलं तच्च खनन्तः सगरात्मजाःकुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥१९॥
स खन्यमानः सहितैः सागरैर्वरुणालयःअगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥२०॥
असुरोरगरक्षांसि सत्त्वानि विविधानि चआर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥२१॥
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाःप्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥२२॥
एवं हि खनतां तेषां समुद्रं मकरालयम्व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥२३॥
ततः पूर्वोत्तरे देशे समुद्रस्य महीपतेविदार्य पातालमथ संक्रुद्धाः सगरात्मजाःअपश्यन्त हयं तत्र विचरन्तं महीतले ॥२४॥
कपिलं च महात्मानं तेजोराशिमनुत्तमम्तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ॥२५॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 105

0
Adhyaya 105Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0