Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाःअनादृत्य महात्मानं कपिलं कालचोदिताःसंक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥१॥
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमःवासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥२॥
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन्ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥३॥
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाःसगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ॥४॥
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥५॥
अंशुमन्तं समाहूय असमञ्जःसुतं तदापौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥६॥
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥७॥
तव चापि पिता तात परित्यक्तो मयानघधर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥८॥
युधिष्ठिर उवाच
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥९॥
लोमश उवाच
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्यं शैब्या जनयामास पौराणां स हि दारकान्खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥१०॥
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताःसगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥११॥
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैःअसमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥१२॥
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमःमुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥१३॥
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥१४॥
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिपयथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥१५॥
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मनापौराणां हितकामेन सगरेण विवासितः ॥१६॥
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हतत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥१७॥
सगर उवाच
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन चअलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥१८॥
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥१९॥
लोमश उवाच
अंशुमानेवमुक्तस्तु सगरेण महात्मनाजगाम दुःखात्तं देशं यत्र वै दारिता मही ॥२०॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश हअपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥२१॥
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥२२॥
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत्उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ॥२३॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥२४॥
तमुवाच महातेजाः कपिलो मुनिपुंगवःददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥२५॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥२६॥
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराःपौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यतिपावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥२७॥
हयं नयस्व भद्रं ते यज्ञियं नरपुंगवयज्ञः समाप्यतां तात सगरस्य महात्मनः ॥२८॥
अंशुमानेवमुक्तस्तु कपिलेन महात्मनाआजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥२९॥
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनःमूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥३०॥
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथातं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥३१॥
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्अंशुमन्तं च संपूज्य समापयत तं क्रतुम् ॥३२॥
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितःपुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥३३॥
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनःपौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥३४॥
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्प्रशशास महाराज यथैवास्य पितामहः ॥३५॥
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥३६॥
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥३७॥
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपःन चावतारयामास चेष्टमानो यथाबलम् ॥३८॥
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणःभगीरथ इति ख्यातः सत्यवागनसूयकः ॥३९॥
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितःतपःसिद्धिसमायोगात्स राजा भरतर्षभवनाज्जगाम त्रिदिवं कालयोगेन भारत ॥४०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 106

0
Adhyaya 106Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0