Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
स तु राजा महेष्वासश्चक्रवर्ती महारथःबभूव सर्वलोकस्य मनोनयननन्दनः ॥१॥
स शुश्राव महाबाहुः कपिलेन महात्मनापितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥२॥
स राज्यं सचिवे न्यस्य हृदयेन विदूयताजगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥३॥
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषःसोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥४॥
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥५॥
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥६॥
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरःभृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥७॥
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैःचकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥८॥
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥९॥
किंनरैरप्सरोभिश्च निषेवितशिलातलम्दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥१०॥
विद्याधरानुचरितं नानारत्नसमाकुलम्विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् ॥११॥
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥१२॥
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितःफलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥१३॥
संवत्सरसहस्रे तु गते दिव्ये महानदीदर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥१४॥
गङ्गोवाचकिमिच्छसि महाराज मत्तः किं च ददानि तेतद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥१५॥
लोमश उवाच
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदापितामहा मे वरदे कपिलेन महानदिअन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥१६॥
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥१७॥
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यतेयावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥१८॥
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥१९॥
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृताभगीरथमिदं वाक्यं सुप्रीता समभाषत ॥२०॥
करिष्यामि महाराज वचस्ते नात्र संशयःवेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥२१॥
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृपअन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥२२॥
तं तोषय महाबाहो तपसा वरदं हरम्स तु मां प्रच्युतां देवः शिरसा धारयिष्यतिकरिष्यति च ते कामं पितॄणां हितकाम्यया ॥२३॥
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथःकैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥२४॥
ततस्तेन समागम्य कालयोगेन केनचित्अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृपस्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥२५॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 107

0
Adhyaya 107Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0