Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजयआनुपूर्व्येण सर्वाणि जगामायतनान्युत ॥१॥
स सागरं समासाद्य गङ्गायाः संगमे नृपनदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥२॥
ततः समुद्रतीरेण जगाम वसुधाधिपःभ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥३॥
लोमश उवाच
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदीयत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ॥४॥
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥५॥
समेन देवयानेन पथा स्वर्गमुपेयुषःअत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥६॥
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखेरुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ॥७॥
हृते पशौ तदा देवास्तमूचुर्भरतर्षभमा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ॥८॥
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ॥९॥
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥१०॥
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥११॥
इमां गाथामत्र गायन्नपः स्पृशति यो नरःदेवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ॥१२॥
वैशंपायन उवाच
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथाअवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ॥१३॥
युधिष्ठिर उवाच
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधनमानुषादस्मि विषयादपेतः पश्य लोमश ॥१४॥
सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रतवैखानसानां जपतामेष शब्दो महात्मनाम् ॥१५॥
लोमश उवाच
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिरयत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ॥१६॥
एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशतेयत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ॥१७॥
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मनेसपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा ॥१८॥
अवासीदच्च कौन्तेय दत्तमात्रा मही तदाउवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥१९॥
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसिप्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥२०॥
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिःप्रसादयां बभूवाथ ततो भूमिं विशां पते ॥२१॥
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डवपुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ॥२२॥
सैषा प्रकाशते राजन्वेदी संस्थानलक्षणाआरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥२३॥
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्यस्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ ॥२४॥
अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिःएवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह ॥२५॥
वैशंपायन उवाच
ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत्कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास ॥२६॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 114

0
Adhyaya 114Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0