Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
अकृतव्रण उवाच
स वेदाध्ययने युक्तो जमदग्निर्महातपाःतपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥१॥
स प्रसेनजितं राजन्नधिगम्य नराधिपम्रेणुकां वरयामास स च तस्मै ददौ नृपः ॥२॥
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनःआश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥३॥
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाःसर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥४॥
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वैरेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥५॥
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम्ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥६॥
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥७॥
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतनाप्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥८॥
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्धिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥९॥
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतःआजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥१०॥
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥११॥
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुःमृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥१२॥
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहातमुवाच महामन्युर्जमदग्निर्महातपाः ॥१३॥
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाःतत आदाय परशुं रामो मातुः शिरोऽहरत् ॥१४॥
ततस्तस्य महाराज जमदग्नेर्महात्मनःकोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥१५॥
ममेदं वचनात्तात कृतं ते कर्म दुष्करम्वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥१६॥
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वैपापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥१७॥
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारतददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥१८॥
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभोअथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥१९॥
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत्स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥२०॥
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात्जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥२१॥
आगताय च रामाय तदाचष्ट पिता स्वयम्गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ॥२२॥
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥२३॥
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान्सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥२४॥
अर्जुनस्याथ दायादा रामेण कृतमन्यवःआश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥२५॥
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥२६॥
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिरघातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥२७॥
अपक्रान्तेषु चैतेषु जमदग्नौ तथागतेसमित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥२८॥
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम्अनर्हन्तं तथाभूतं विललाप सुदुःखितः ॥२९॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 116

0
Adhyaya 116Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0