Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
राम उवाच
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैःकार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥१॥
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथेमृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥२॥
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितःअयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥३॥
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु चअयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ॥४॥
अकृतव्रण उवाच
विलप्यैवं स करुणं बहु नानाविधं नृपप्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥५॥
ददाह पितरं चाग्नौ रामः परपुरंजयःप्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥६॥
संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान्जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥७॥
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभतांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ॥८॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुःसमन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥९॥
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहःसाक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥१०॥
ततो यज्ञेन महता जामदग्न्यः प्रतापवान्तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ॥११॥
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मनेदशव्यामायतां कृत्वा नवोत्सेधां विशां पते ॥१२॥
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदाव्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ॥१३॥
स प्रदाय महीं तस्मै कश्यपाय महात्मनेअस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥१४॥
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिःपृथिवी चापि विजिता रामेणामिततेजसा ॥१५॥
वैशंपायन उवाच
ततश्चतुर्दशीं रामः समयेन महामनाःदर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ॥१६॥
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुःद्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥१७॥
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूःमहेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥१८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 117

0
Adhyaya 117Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0