Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवःसमीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ॥१॥
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डवअतिष्ठत्सुबहून्कालानेकदेशे विशां पते ॥२॥
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतःकालेन महता राजन्समाकीर्णः पिपीलिकैः ॥३॥
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशःतप्यति स्म तपो राजन्वल्मीकेन समावृतः ॥४॥
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवःआजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥५॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहःएकैव च सुता शुभ्रा सुकन्या नाम भारत ॥६॥
सा सखीभिः परिवृता सर्वाभरणभूषिताचङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥७॥
सा चैव सुदती तत्र पश्यमाना मनोरमान्वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ॥८॥
रूपेण वयसा चैव मदनेन मदेन चबभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥९॥
तां सखीरहितामेकामेकवस्त्रामलंकृताम्ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥१०॥
तां पश्यमानो विजने स रेमे परमद्युतिःक्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितःतामाबभाषे कल्याणीं सा चास्य न शृणोति वै ॥११॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषीकौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥१२॥
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचनेअक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान्ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ॥१३॥
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम्तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥१४॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतःकेनापकृतमद्येह भार्गवस्य महात्मनःज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ॥१५॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥१६॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥१७॥
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ॥१८॥
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥१९॥
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत्तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥२०॥
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिःअज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥२१॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदारूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ॥२२॥
तामेव प्रतिगृह्याहं राजन्दुहितरं तवक्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥२३॥
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥२४॥
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद हप्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ॥२५॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितानित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥२६॥
अग्नीनामतिथीनां च शुश्रूषुरनसूयिकासमाराधयत क्षिप्रं च्यवनं सा शुभानना ॥२७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 122

0
Adhyaya 122Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0