Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम्संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥१॥
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविवरेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥२॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिःउपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥३॥
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥४॥
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिःच्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥५॥
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥६॥
तत्रैनं च्यवनो राजन्याजयामास भार्गवःअद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥७॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदातमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ॥८॥
इन्द्र उवाच
उभावेतौ न सोमार्हौ नासत्याविति मे मतिःभिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ॥९॥
च्यवन उवाच
मावमंस्था महात्मानौ रूपद्रविणवत्तरौयौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ॥१०॥
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥११॥
इन्द्र उवाच
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौलोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥१२॥
लोमश उवाच
एतदेव यदा वाक्यमाम्रेडयति वासवःअनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥१३॥
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदासमीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥१४॥
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम्वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥१५॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवःजग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥१६॥
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिःतस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥१७॥
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥१८॥
ततः कृत्या समभवदृषेस्तस्य तपोबलात्मदो नाम महावीर्यो बृहत्कायो महासुरःशरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ॥१९॥
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत्हनुरेका स्थिता तस्य भूमावेका दिवं गता ॥२०॥
चतस्र आयता दंष्ट्रा योजनानां शतं शतम्इतरे त्वस्य दशना बभूवुर्दशयोजनाःप्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ॥२१॥
बाहू पर्वतसंकाशावायतावयुतं समौनेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ॥२२॥
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलयाव्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥२३॥
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत्महता घोररूपेण लोकाञ्शब्देन नादयन् ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 124

0
Adhyaya 124Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0