महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आरण्यक पर्व
॥ श्रीः ॥
अध्याय 125
महाभारत · आरण्यक पर्व
लोमश उवाच
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुःआयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥१॥
भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुःततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥२॥
सोमार्हावश्विनावेतावद्य प्रभृति भार्गवभविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ॥३॥
न ते मिथ्या समारम्भो भवत्वेष परो विधिःजानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥४॥
सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वयाभूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥५॥
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदितिअतो मयैतद्विहितं तव वीर्यप्रकाशनम्तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥६॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनःस मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ॥७॥
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥८॥
तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुनाअश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥९॥
विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरःसुकन्यया सहारण्ये विजहारानुरक्तया ॥१०॥
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशतेअत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ॥११॥
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारतसैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्पुष्करेषु महाराज सर्वेषु च जलं स्पृश ॥१२॥
आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम्सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम्चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ॥१३॥
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासतेवैखानसाश्च ऋषयो वालखिल्यास्तथैव च ॥१४॥
शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि चसर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥१५॥
शंतनुश्चात्र कौन्तेय शुनकश्च नराधिपनरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ॥१६॥
इह नित्यशया देवाः पितरश्च महर्षिभिःआर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥१७॥
इह ते वै चरून्प्राश्नन्नृषयश्च विशां पतेयमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥१८॥
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शनसर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ॥१९॥
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिपयत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ॥२०॥
इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणःमैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥२१॥
एषा सा यमुना राजन्राजर्षिगणसेवितानानायज्ञचिता राजन्पुण्या पापभयापहा ॥२२॥
अत्र राजा महेष्वासो मान्धातायजत स्वयम्सहदेवश्च कौन्तेय सोमको ददतां वरः ॥२३॥
अध्याय समाप्त ॥
१

0
अध्याय 125पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0