Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
एषा मधुविला राजन्समङ्गा संप्रकाशतेएतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥१॥
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिःआप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥२॥
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभअदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ॥३॥
एनं पर्वतराजानमारुह्य पुरुषर्षभअयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥४॥
एते कनखला राजनृषीणां दयिता नगाःएषा प्रकाशते गङ्गा युधिष्ठिर महानदी ॥५॥
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम्आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥६॥
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥७॥
आश्रमः स्थूलशिरसो रमणीयः प्रकाशतेअत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥८॥
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशतेभारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ॥९॥
युधिष्ठिर उवाच
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ॥१०॥
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमशकर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥११॥
लोमश उवाच
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुःतावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥१२॥
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसूआसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥१३॥
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ॥१४॥
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ॥१५॥
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतःतपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥१६॥
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्जनयामास संतापमिन्द्रस्य सुमहातपाः ॥१७॥
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिरअब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥१८॥
यवक्रीरुवाचद्विजानामनधीता वै वेदाः सुरगणार्चितप्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ॥१९॥
स्वाध्यायार्थे समारम्भो ममायं पाकशासनतपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥२०॥
कालेन महता वेदाः शक्या गुरुमुखाद्विभोप्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥२१॥
इन्द्र उवाच
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसिकिं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥२२॥
लोमश उवाच
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारतभूय एवाकरोद्यत्नं तपस्यमितविक्रम ॥२३॥
घोरेण तपसा राजंस्तप्यमानो महातपाःसंतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥२४॥
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्उपेत्य बलभिद्देवो वारयामास वै पुनः ॥२५॥
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तवप्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥२६॥
यवक्रीरुवाचन चैतदेवं क्रियते देवराज ममेप्सितम्महता नियमेनाहं तप्स्ये घोरतरं तपः ॥२७॥
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोधयद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ॥२८॥
लोमश उवाच
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनःप्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥२९॥
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनःअनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥३०॥
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणिभागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥३१॥
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमःवालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥३२॥
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ॥३३॥
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धनेप्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥३४॥
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम्अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥३५॥
इन्द्र उवाच
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यतिक्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ॥३६॥
यवक्रीरुवाचनायं शक्यस्त्वया बद्धुं महानोघः कथंचनअशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥३७॥
इन्द्र उवाच
यथैव भवता चेदं तपो वेदार्थमुद्यतम्अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ॥३८॥
यवक्रीरुवाचयथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वरतथा यदि ममापीदं मन्यसे पाकशासन ॥३९॥
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वरवरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ॥४०॥
लोमश उवाच
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाःप्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥४१॥
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामितिस लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ॥४२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 135

0
Adhyaya 135Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0