Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
भीमसेन यमौ चोभौ पाञ्चालि च निबोधतनास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥१॥
दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम्अशक्येऽपि व्रजामेति धनंजयदिदृक्षया ॥२॥
तन्मे दहति गात्राणि तूलराशिमिवानलःयच्च वीरं न पश्यामि धनंजयमुपान्तिके ॥३॥
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम्याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥४॥
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥५॥
तीर्थानि चैव रम्याणि वनानि च सरांसि चचरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥६॥
पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम्यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥७॥
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥८॥
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम्न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ॥९॥
चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम्प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् ॥१०॥
यः स शक्रादनवरो वीर्येण द्रविणेन चयमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥११॥
दुःखेन महताविष्टः स्वकृतेनानिवर्तिनाअजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ॥१२॥
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसाऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ॥१३॥
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतःअपि वज्रधरस्यापि भवेत्कालविषोपमः ॥१४॥
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्दाताभयस्य बीभत्सुरमितात्मा महाबलः ॥१५॥
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिताआहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥१६॥
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा ममबहूनि बहुजातानि यानि प्राप्तः सुयोधनः ॥१७॥
यस्य बाहुबलाद्वीर सभा चासीत्पुरा ममसर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥१८॥
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधिअजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ॥१९॥
संकर्षणं महावीर्यं त्वां च भीमापराजितम्अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥२०॥
यस्य बाहुबले तुल्यः प्रभावे च पुरंदरःजवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥२१॥
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवःप्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥२२॥
विशाला बदरी यत्र नरनारायणाश्रमःतं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥२३॥
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम्पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ॥२४॥
नातप्ततपसा शक्यो देशो गन्तुं वृकोदरन नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥२५॥
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणःसायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ॥२६॥
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान्प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥२७॥
ते वयं नियतात्मानः पर्वतं गन्धमादनम्प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः ॥२८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 142

0
Adhyaya 142Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0