Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाःबद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः ॥१॥
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम्पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥२॥
सरांसि सरितश्चैव पर्वतांश्च वनानि चवृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनिनित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ॥३॥
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाःचेरुरुच्चावचाकारान्देशान्विषमसंकटान्पश्यन्तो मृगजातानि बहूनि विविधानि च ॥४॥
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्विविशुस्ते महात्मानः किंनराचरितं गिरिम् ॥५॥
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ॥६॥
ततो रेणुः समुद्भूतः सपत्रबहुलो महान्पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥७॥
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुनान चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ॥८॥
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषःआकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥९॥
द्रुमाणां वातभग्नानां पततां भूतले भृशम्अन्येषां च महीजानां शब्दः समभवन्महान् ॥१०॥
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम्इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥११॥
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि चपाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥१२॥
ततः कार्मुकमुद्यम्य भीमसेनो महाबलःकृष्णामादाय संगत्या तस्थावाश्रित्य पादपम् ॥१३॥
धर्मराजश्च धौम्यश्च निलिल्याते महावनेअग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥१४॥
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाःवृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे ॥१५॥
मन्दीभूते च पवने तस्मिन्रजसि शाम्यतिमहद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ॥१६॥
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततःप्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥१७॥
ततः सागरगा आपः कीर्यमाणाः समन्ततःप्रादुरासन्सकलुषाः फेनवत्यो विशां पते ॥१८॥
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥१९॥
तस्मिन्नुपरते वर्षे वाते च समतां गतेगते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥२०॥
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारतप्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ॥२१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 143

0
Adhyaya 143Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0