Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतःभीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ॥१॥
को भवान्किंनिमित्तं वा वानरं वपुराश्रितःब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ॥२॥
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितःपाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥३॥
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्हनूमान्वायुतनयो वायुपुत्रमभाषत ॥४॥
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥५॥
भीम उवाच
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानरप्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ॥६॥
हनूमानुवाचनास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥७॥
भीम उवाच
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठतितमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥८॥
यद्यागमैर्न विन्देयं तमहं भूतभावनम्क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ॥९॥
हनूमानुवाचक एष हनुमान्नाम सागरो येन लङ्घितःपृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥१०॥
भीम उवाच
भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितःरामायणेऽतिविख्यातः शूरो वानरपुंगवः ॥११॥
रामपत्नीकृते येन शतयोजनमायतःसागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥१२॥
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसाबले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥१३॥
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ॥१४॥
वैशंपायन उवाच
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम्हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥१५॥
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥१६॥
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिनान चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥१७॥
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥१८॥
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखःस्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ॥१९॥
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतःकपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ॥२०॥
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥२१॥
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकःपृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ॥२२॥
हनूमानुवाचयत्ते मम परिज्ञाने कौतूहलमरिंदमतत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥२३॥
अहं केसरिणः क्षेत्रे वायुना जगदायुषाजातः कमलपत्राक्ष हनूमान्नाम वानरः ॥२४॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्सर्ववानरराजानौ सर्ववानरयूथपाः ॥२५॥
उपतस्थुर्महावीर्या मम चामित्रकर्शनसुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥२६॥
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरेऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥२७॥
अथ दाशरथिर्वीरो रामो नाम महाबलःविष्णुर्मानुषरूपेण चचार वसुधामिमाम् ॥२८॥
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजःसधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ॥२९॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात्वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ॥३०॥
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवःदृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥३१॥
तेन तस्याभवत्सख्यं राघवस्य महात्मनःस हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्स हरीन्प्रेषयामास सीतायाः परिमार्गणे ॥३२॥
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम्तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ॥३३॥
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणःशतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ॥३४॥
दृष्टा सा च मया देवी रावणस्य निवेशनेप्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ॥३५॥
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान्पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ॥३६॥
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मयायावद्रामकथा वीर भवेल्लोकेषु शत्रुहन्तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ॥३७॥
दश वर्षसहस्राणि दश वर्षशतानि चराज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ॥३८॥
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघतस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥३९॥
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दनततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम्धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ॥४०॥
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाःयदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ॥४१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 147

0
Adhyaya 147Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0