Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
जनमेजय उवाच
कथं नागायुतप्राणो भीमसेनो महाबलःभयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥१॥
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितःनलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ॥२॥
तं शंससि भयाविष्टमापन्नमरिकर्षणम्एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥३॥
वैशंपायन उवाच
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ॥४॥
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरःददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥५॥
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदादेवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥६॥
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैःकोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ॥७॥
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैःउपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥८॥
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैःसलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ॥९॥
वनानि देवदारूणां मेघानामिव वागुराःहरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥१०॥
मृगयां परिधावन्स समेषु मरुधन्वसुविध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ॥११॥
स ददर्श महाकायं भुजङ्गं लोमहर्षणम्गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥१२॥
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैःचित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ॥१३॥
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजतादीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥१४॥
त्रासनं सर्वभूतानां कालान्तकयमोपमम्निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥१५॥
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम्जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥१६॥
तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदासंज्ञा मुमोह सहसा वरदानेन तस्य ह ॥१७॥
दश नागसहस्राणि धारयन्ति हि यद्बलम्तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥१८॥
स तेजस्वी तथा तेन भुजगेन वशीकृतःविस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥१९॥
नागायुतसमप्राणः सिंहस्कन्धो महाभुजःगृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ॥२०॥
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणेन चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥२१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 175

0
Adhyaya 175Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0