Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम्दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥१॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥२॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥३॥
युधिष्ठिर उवाच
देवो वा यदि वा दैत्य उरगो वा भवान्यदिसत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥४॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगमकिमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥५॥
सर्प उवाच
नहुषो नाम राजाहमासं पूर्वस्तवानघप्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥६॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन चत्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥७॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदासहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥८॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्इमामगस्त्येन दशामानीतः पृथिवीपते ॥९॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डवतस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥१०॥
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तवनाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥११॥
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्ममअथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥१२॥
युधिष्ठिर उवाच
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचःअपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम ॥१३॥
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥१४॥
सर्प उवाच
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिरब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥१५॥
युधिष्ठिर उवाच
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणादृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥१६॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥१७॥
सर्प उवाच
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हशूद्रेष्वपि च सत्यं च दानमक्रोध एव चआनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥१८॥
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिपताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥१९॥
युधिष्ठिर उवाच
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यतेन वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥२०॥
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतःयत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥२१॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति हताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥२२॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यतेयथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥२३॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥२४॥
सर्प उवाच
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितःव्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ॥२५॥
युधिष्ठिर उवाच
जातिरत्र महासर्प मनुष्यत्वे महामतेसंकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥२६॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराःवाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥२७॥
इदमार्षं प्रमाणं च ये यजामह इत्यपितस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥२८॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयतेतत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥२९॥
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायतेअस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥३०॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यतेसंकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥३१॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यतेतं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥३२॥
सर्प उवाच
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिरभक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥३३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 177

0
Adhyaya 177Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0