Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
देव उवाच
कामं देवापि मां विप्र न विजानन्ति तत्त्वतःत्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥१॥
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतःअतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥२॥
आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मयातेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ॥३॥
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययःविधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥४॥
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपःअहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥५॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिःअहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥६॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचनेसदिशं च नभः कायो वायुर्मनसि मे स्थितः ॥७॥
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैःयजन्ते वेदविदुषो मां देवयजने स्थितम् ॥८॥
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणःयजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ॥९॥
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्शेषो भूत्वाहमेवैतां धारयामि वसुंधराम् ॥१०॥
वाराहं रूपमास्थाय मयेयं जगती पुरामज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥११॥
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तमपिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ॥१२॥
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशःपादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ॥१३॥
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणःमत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥१४॥
यतयः शान्तिपरमा यतात्मानो मुमुक्षवःकामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ॥१५॥
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाःमामेव सततं विप्राश्चिन्तयन्त उपासते ॥१६॥
अहं संवर्तको ज्योतिरहं संवर्तको यमःअहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ॥१७॥
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तलेमम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥१८॥
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम्वसनं शयनं चैव निलयं चैव विद्धि मे ॥१९॥
कामं क्रोधं च हर्षं च भयं मोहं तथैव चममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ॥२०॥
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम्सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥२१॥
मद्विधानेन विहिता मम देहविहारिणःमयाभिभूतविज्ञाना विचेष्टन्ते न कामतः ॥२२॥
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैःशान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥२३॥
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिःलोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥२४॥
तं मां महाफलं विद्धि पदं सुकृतकर्मणःदुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ॥२५॥
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तमअभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥२६॥
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैःराक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥२७॥
तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम्प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ॥२८॥
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्स्थावराणि च भूतानि संहराम्यात्ममायया ॥२९॥
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् ॥३०॥
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे ममरक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥३१॥
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युतअन्तकाले च संप्राप्ते कालो भूत्वातिदारुणःत्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥३२॥
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहःअभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥३३॥
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वैशमनं सर्वभूतानां सर्वलोककृतोद्यमम् ॥३४॥
एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तमसर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥३५॥
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विजसुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥३६॥
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ॥३७॥
अर्धं मम शरीरस्य सर्वलोकपितामहःअहं नारायणो नाम शङ्खचक्रगदाधरः ॥३८॥
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम्तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥३९॥
एवं सर्वमहं कालमिहासे मुनिसत्तमअशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥४०॥
मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणाअसकृत्परितुष्टेन विप्रर्षिगणपूजित ॥४१॥
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥४२॥
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा ममदृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥४३॥
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मयाआख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ॥४४॥
यावत्स भगवान्ब्रह्मा न बुध्यति महातपाःतावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥४५॥
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहेएकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ॥४६॥
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव चलोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥४७॥
मार्कण्डेय उवाच
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतःप्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ॥४८॥
एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षयेआश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ॥४९॥
यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणःस एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥५०॥
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा ॥५१॥
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुःआस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥५२॥
एष धाता विधाता च संहर्ता चैव सात्वतःश्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ॥५३॥
दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागताआदिदेवमजं विष्णुं पुरुषं पीतवाससम् ॥५४॥
सर्वेषामेव भूतानां पिता माता च माधवःगच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥५५॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 187

0
Adhyaya 187Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0