Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम्प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥१॥
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥२॥
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान्आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥३॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिताश्रावस्तस्य तु दायादो बृहदश्वो महाबलःबृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ॥४॥
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिःसर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥५॥
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत्समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत्कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥६॥
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिःजगाम तपसे धीमांस्तपोवनममित्रहा ॥७॥
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिरवनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥८॥
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम्न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ॥९॥
उत्तङ्क उवाच
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसिनिरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ॥१०॥
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मनाभविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥११॥
पालने हि महान्धर्मः प्रजानामिह दृश्यतेन तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ॥१२॥
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यतेप्रजानां पालने यो वै पुरा राजर्षिभिः कृतःरक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥१३॥
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिवममाश्रमसमीपे वै समेषु मरुधन्वसु ॥१४॥
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतःबहुयोजनविस्तीर्णो बहुयोजनमायतः ॥१५॥
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमःमधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ॥१६॥
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमःतं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥१७॥
शेते लोकविनाशाय तप आस्थाय दारुणम्त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥१८॥
अवध्यो देवतानां स दैत्यानामथ रक्षसाम्नागानामथ यक्षाणां गन्धर्वाणां च सर्वशःअवाप्य स वरं राजन्सर्वलोकपितामहात् ॥१९॥
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथाप्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥२०॥
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वैसंवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्ततेयदा तदा भूश्चलति सशैलवनकानना ॥२१॥
तस्य निःश्वासवातेन रज उद्धूयते महत्आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ॥२२॥
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमेतं विनाशय राजेन्द्र लोकानां हितकाम्ययालोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥२३॥
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिःतेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥२४॥
विष्णुना च वरो दत्तो मम पूर्वं ततो वधेयस्तं महासुरं रौद्रं वधिष्यति महीपतिःतेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥२५॥
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम्तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ॥२६॥
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यतेनिर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥२७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 193

0
Adhyaya 193Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0