Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिरदृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ॥१॥
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते ॥२॥
व्याध उवाच
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तमयेन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव ॥३॥
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥४॥
मार्कण्डेय उवाच
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥५॥
देवतागृहसंकाशं दैवतैश्च सुपूजितम्शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥६॥
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौकृताहारौ सुतुष्टौ तावुपविष्टौ वरासनेधर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥७॥
वृद्धावूचतुःउत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतुप्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहिसत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥८॥
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्ततेप्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥९॥
पितुः पितामहा ये च तथैव प्रपितामहाःप्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥१०॥
मनसा कर्मणा वाचा शुश्रूषा नैव हीयतेन चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव ॥११॥
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौतथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥१२॥
मार्कण्डेय उवाच
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥१३॥
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौसपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहेअनामयं च वां कच्चित्सदैवेह शरीरयोः ॥१४॥
वृद्धावूचतुःकुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशःकच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह ॥१५॥
मार्कण्डेय उवाच
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितःधर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥१६॥
पिता माता च भगवन्नेतौ मे दैवतं परम्यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥१७॥
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाःसंपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥१८॥
उपहारानाहरन्तो देवतानां यथा द्विजाःकुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥१९॥
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ॥२०॥
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणःयज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥२१॥
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाःसपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥२२॥
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावयेआहारं संप्रयच्छामि स्वयं च द्विजसत्तम ॥२३॥
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन्अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥२४॥
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तमअतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥२५॥
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतःपिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ॥२६॥
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तमभवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशःगार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥२७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 204

0
Adhyaya 204Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0