Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
आपस्य मुदिता भार्या सहस्य परमा प्रियाभूपतिर्भुवभर्ता च जनयत्पावकं परम् ॥१॥
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥२॥
महतां चैव भूतानां सर्वेषामिह यः पतिःभगवान्स महातेजा नित्यं चरति पावकः ॥३॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यतेहुतं वहति यो हव्यमस्य लोकस्य पावकः ॥४॥
अपां गर्भो महाभागः सहपुत्रो महाद्भुतःभूपतिर्भुवभर्ता च महतः पतिरुच्यते ॥५॥
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत्अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥६॥
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥७॥
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्देवानां वह हव्यं त्वमहं वीर सुदुर्बलःअथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥८॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥९॥
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥१०॥
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सःनैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥११॥
स तच्छरीरं संत्यज्य प्रविवेश धरां तदाभूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥१२॥
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु चश्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥१३॥
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाःनखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥१४॥
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितःभृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥१५॥
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखीदृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥१६॥
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥१७॥
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम्मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥१८॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणाआहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥१९॥
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥२०॥
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वतीगङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ॥२१॥
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथाताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥२२॥
तमसा नर्मदा चैव नदी गोदावरी तथावेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥२३॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथाकृष्णा च कृष्णवेण्णा च कपिला शोण एव चएता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥२४॥
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथःयावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ॥२५॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाःअत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत्तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥२६॥
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मयाअप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ॥२७॥
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥२८॥
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराःबहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥२९॥
इत्येष वंशः सुमहानग्नीनां कीर्तितो मयापावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥३०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 212

0
Adhyaya 212Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0