Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघशृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥१॥
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥२॥
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥३॥
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरःस्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥४॥
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलःपालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥५॥
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥६॥
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव हपतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥७॥
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तवएवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥८॥
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ॥९॥
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसिवज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥१०॥
केश्युवाचविसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मयाक्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥११॥
मार्कण्डेय उवाच
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वैतामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥१२॥
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुःबिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥१३॥
पतता तु तदा केशी तेन शृङ्गेण ताडितःहित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥१४॥
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥१५॥
कन्योवाचअहं प्रजापतेः कन्या देवसेनेति विश्रुताभगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ॥१६॥
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ॥१७॥
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरःइच्छत्येनं दैत्यसेना न त्वहं पाकशासन ॥१८॥
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तुत्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥१९॥
इन्द्र उवाच
मम मातृष्वसेया त्वं माता दाक्षायणी ममआख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥२०॥
कन्योवाचअबलाहं महाबाहो पतिस्तु बलवान्ममवरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥२१॥
इन्द्र उवाच
कीदृशं वै बलं देवि पत्युस्तव भविष्यतिएतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥२२॥
कन्योवाचदेवदानवयक्षाणां किंनरोरगरक्षसाम्जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ॥२३॥
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यतिस हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥२४॥
मार्कण्डेय उवाच
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥२५॥
अथापश्यत्स उदये भास्करं भास्करद्युतिःसोमं चैव महाभागं विशमानं दिवाकरम् ॥२६॥
अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव चदेवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥२७॥
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुःअपश्यल्लोहितोदं च भगवान्वरुणालयम् ॥२८॥
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैःहव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥२९॥
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ॥३०॥
समालोक्यैकतामेव शशिनो भास्करस्य चसमवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ॥३१॥
एष रौद्रश्च संघातो महान्युक्तश्च तेजसासोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमःजनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ॥३२॥
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवताएष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ॥३३॥
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतःगृहीत्वा देवसेनां तामवन्दत्स पितामहम्उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ॥३४॥
ब्रह्मोवाचयथैतच्चिन्तितं कार्यं त्वया दानवसूदनतथा स भविता गर्भो बलवानुरुविक्रमः ॥३५॥
स भविष्यति सेनानीस्त्वया सह शतक्रतोअस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥३६॥
मार्कण्डेय उवाच
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्ययातत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन्वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥३७॥
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरेपिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥३८॥
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशनेजुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ॥३९॥
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुःआगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥४०॥
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनःऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥४१॥
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥४२॥
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाःहुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ॥४३॥
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियःपत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥४४॥
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ॥४५॥
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततःगार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥४६॥
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाःपश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥४७॥
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतःमनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥४८॥
कामसंतप्तहृदयो देहत्यागे सुनिश्चितःअलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ॥४९॥
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदासा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनीअप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ॥५०॥
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम्तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥५१॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्कामयिष्यामि कामार्तं तासां रूपेण मोहितम्एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥५२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 213

0
Adhyaya 213Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0