Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्वितातस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिपजगाम पावकाभ्याशं तं चोवाच वराङ्गना ॥१॥
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसिकरिष्यसि न चेदेवं मृतां मामुपधारय ॥२॥
अहमङ्गिरसो भार्या शिवा नाम हुताशनसखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥३॥
अग्निरुवाचकथं मां त्वं विजानीषे कामार्तमितराः कथम्यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥४॥
शिवोवाचअस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तवत्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥५॥
मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चरमातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥६॥
मार्कण्डेय उवाच
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतःप्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥७॥
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति काननेते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥८॥
तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम्वनान्निर्गमनं चैव सुखं मम भविष्यति ॥९॥
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥१०॥
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैःरक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथाराक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः ॥११॥
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ॥१२॥
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥१३॥
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तयातस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥१४॥
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तमतस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥१५॥
तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम्ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ॥१६॥
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमःएकग्रीवस्त्वेककायः कुमारः समपद्यत ॥१७॥
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौअङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः ॥१८॥
लोहिताभ्रेण महता संवृतः सह विद्युतालोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥१९॥
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥२०॥
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदासंमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ॥२१॥
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम्उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥२२॥
तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिःद्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिनाअपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ॥२३॥
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ॥२४॥
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्प्राध्मापयत भूतानां त्रासनं बलिनामपि ॥२५॥
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सःक्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन्पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥२६॥
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमःव्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशःस पश्यन्विविधान्भावांश्चकार निनदं पुनः ॥२७॥
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाःभीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥२८॥
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाःतानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥२९॥
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥३०॥
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥३१॥
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन्तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥३२॥
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरःन प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥३३॥
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मनाबिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥३४॥
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सहउत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ॥३५॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततःआर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ॥३६॥
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताःअथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥३७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 214

0
Adhyaya 214Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0