Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान्अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥१॥
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाःतेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥२॥
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतःयैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छतीन तु तत्स्वाहया कर्म कृतं जानाति वै जनः ॥३॥
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्वितिउपगम्य शनैः स्कन्दमाहाहं जननी तव ॥४॥
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ॥५॥
षड्भिरेव तदा जातमाहुस्तद्वनवासिनःसप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युतअहं जाने नैतदेवमिति राजन्पुनः पुनः ॥६॥
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिःपावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ॥७॥
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतःस्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥८॥
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदशजातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥९॥
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम्शक्त्या देव्याः साधनं च तथा पारिषदामपि ॥१०॥
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वैतस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ॥११॥
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिःअब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियःश्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ॥१२॥
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन्अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ॥१३॥
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यतित्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ॥१४॥
स तानुवाच व्यथितो बालोऽयं सुमहाबलःस्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ॥१५॥
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरःकामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ॥१६॥
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताःअशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ॥१७॥
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ॥१८॥
ताः संपूज्य महासेनः कामांश्चासां प्रदाय सःअपश्यदग्निमायान्तं पितरं बलिनां बली ॥१९॥
स तु संपूजितस्तेन सह मातृगणेन हपरिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ॥२०॥
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवाधात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ॥२१॥
लोहितस्योदधेः कन्या क्रूरा लोहितभोजनापरिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥२२॥
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजःरमयामास शैलस्थं बालं क्रीडनकैरिव ॥२३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 215

0
Adhyaya 215Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0