Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वासुदेव उवाच
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुःयुध्यमानो मया संख्ये वियदभ्यागमत्पुनः ॥१॥
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्चचिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ॥२॥
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एवद्विधा त्रिधा चाच्छिनमाशु मुक्तै;स्ततोऽन्तरिक्षे निनदो बभूव ॥३॥
ततः शतसहस्रेण शराणां नतपर्वणाम्दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥४॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निवस्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥५॥
इति तस्य निशम्याहं सारथेः करुणं वचःअवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥६॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वयेअन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥७॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥८॥
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणेअस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥९॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥१०॥
आहुकस्य वचो वीर तस्यैव परिचारकःविषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥११॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचःकेशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥१२॥
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दनविषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥१३॥
तदलं साधु युद्धेन निवर्तस्व जनार्दनद्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥१४॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाःनिश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥१५॥
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥१६॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दनतेषु रक्षां समाधाय प्रयातः सौभपातने ॥१७॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहासात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥१८॥
एतेषु हि नरव्याघ्र जीवत्सु न कथंचनशक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥१९॥
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवःबलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥२०॥
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुःसुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥२१॥
ततोऽपश्यं महाराज प्रपतन्तमहं तदासौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥२२॥
तस्य रूपं प्रपततः पितुर्मम नराधिपययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥२३॥
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजःप्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥२४॥
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मममोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥२५॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥२६॥
प्रसार्य बाहू पततः प्रसार्य चरणावपिरूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥२७॥
तं पतन्तं महाबाहो शूलपट्टिशपाणयःअभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥२८॥
ततो मुहूर्तात्प्रतिलभ्य संज्ञा;महं तदा वीर महाविमर्देन तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ॥२९॥
ततो ममासीन्मनसि मायेयमिति निश्चितम्प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ॥३०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 22

0
Adhyaya 22Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0