Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
जनमेजय उवाच
एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाःसरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ॥१॥
वैशंपायन उवाच
सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम्वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ॥२॥
तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्चअभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः ॥३॥
ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान्स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ॥४॥
अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेनप्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ॥५॥
कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान्तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ॥६॥
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तःवने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥७॥
प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान्वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ॥८॥
कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजःअजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी ॥९॥
प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पःपतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः ॥१०॥
कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गःशेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ॥११॥
तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञःविदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात् ॥१२॥
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान्विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ॥१३॥
तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीवप्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ॥१४॥
समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान्स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥१५॥
स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणःसत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥१६॥
अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत्तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ॥१७॥
न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम्अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ॥१८॥
स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरःविनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ॥१९॥
गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौन शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ॥२०॥
दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताःमधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च ॥२१॥
शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्तास तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥२२॥
क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम्न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि ॥२३॥
कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेनमया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः ॥२४॥
ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी याध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः ॥२५॥
क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित्प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ॥२६॥
कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम्अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके ॥२७॥
गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्यअस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥२८॥
स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत्अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥२९॥
धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम्अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु ॥३०॥
निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्चअबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ॥३१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 225

0
Adhyaya 225Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0