Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलःदुर्योधनमिदं काले कर्णो वचनमब्रवीत् ॥१॥
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारतभुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ॥२॥
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनःकृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥३॥
या हि सा दीप्यमानेव पाण्डवान्भजते पुरासाद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥४॥
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरेअपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥५॥
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥६॥
तथैव तव राजेन्द्र राजानः परवीरहन्शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥७॥
तवाद्य पृथिवी राजन्निखिला सागराम्बरासपर्वतवना देवी सग्रामनगराकरानानावनोद्देशवती पत्तनैरुपशोभिता ॥८॥
वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिःपौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥९॥
रुद्रैरिव यमो राजा मरुद्भिरिव वासवःकुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥१०॥
ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च नपश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥११॥
श्रूयन्ते हि महाराज सरो द्वैतवनं प्रतिवसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥१२॥
स प्रयाहि महाराज श्रिया परमया युतःप्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥१३॥
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतःअसमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥१४॥
महाभिजनसंपन्नं भद्रे महति संस्थितम्पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥१५॥
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पतेपश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥१६॥
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षतेजगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥१७॥
न पुत्रधनलाभेन न राज्येनापि विन्दतिप्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥१८॥
किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥१९॥
सुवाससो हि ते भार्या वल्कलाजिनवाससम्पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनःविनिन्दतां तथात्मानं जीवितं च धनच्युता ॥२०॥
न तथा हि सभामध्ये तस्या भवितुमर्हतिवैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥२१॥
एवमुक्त्वा तु राजानं कर्णः शकुनिना सहतूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥२२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 226

0
Adhyaya 226Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0