Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥१॥
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥२॥
शासतैनानधर्मज्ञान्मम विप्रियकारिणःयदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ॥३॥
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाःसर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ॥४॥
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्सिंहनादेन महता पूरयन्तो दिशो दश ॥५॥
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाःते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिपताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥६॥
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाःततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥७॥
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रतिअनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ॥८॥
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारतप्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥९॥
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान्सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः ॥१०॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ॥११॥
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्महता शरवर्षेण राधेयः प्रत्यवारयत् ॥१२॥
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैःगन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ॥१३॥
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथःक्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥१४॥
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमताभूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥१५॥
गन्धर्वभूता पृथिवी क्षणेन समपद्यतआपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥१६॥
अथ दुर्योधनो राजा शकुनिश्चापि सौबलःदुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाःन्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ॥१७॥
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतःमहता रथघोषेण हयचारेण चाप्युतवैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ॥१८॥
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सहतदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ॥१९॥
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताःउच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ॥२०॥
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणःउत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥२१॥
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥२२॥
एकैको हि तदा योधो धार्तराष्ट्रस्य भारतपर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ॥२३॥
ततः संपीड्यमानास्ते बलेन महता तदाप्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥२४॥
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशःकर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥२५॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलःगन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ॥२६॥
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशःजिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ॥२७॥
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाःसूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥२८॥
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥२९॥
अन्ये छत्रं वरूथं च बन्धुरं च तथापरेगन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ॥३०॥
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥३१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 230

0
Adhyaya 230Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0