Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च हविदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥१॥
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारतसौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥२॥
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पतेआज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥३॥
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतःदीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥४॥
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाःभीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥५॥
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव चते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥६॥
तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत्गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥७॥
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान्दुर्योधनो महाराज यजते नृपसत्तमः ॥८॥
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनःतत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥९॥
अहं तु प्रेषितो राजन्कौरवेण महात्मनाआमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरःमनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥१०॥
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनःयजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥११॥
वयमप्युपयास्यामो न त्विदानीं कथंचनसमयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥१२॥
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥१३॥
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यतिवर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥१४॥
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवःआगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥१५॥
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम्दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥१६॥
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराःब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥१७॥
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम्मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥१८॥
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैःहर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥१९॥
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतःतुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥२०॥
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदमयथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥२१॥
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिःवासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥२२॥
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसुविसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥२३॥
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितःविवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 242

0
Adhyaya 242Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0