Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥१॥
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौप्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ॥२॥
मार्कण्डेय उवाच
जातपुत्रो दशरथः प्रीतिमानभवन्नृपःक्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥३॥
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसःवेदेषु सरहस्येषु धनुर्वेदे च पारगाः ॥४॥
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिवयदा तदा दशरथः प्रीतिमानभवत्सुखी ॥५॥
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाःमनोहरतया धीमान्पितुर्हृदयतोषणः ॥६॥
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम्मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥७॥
अभिषेकाय रामस्य यौवराज्येन भारतप्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥८॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥९॥
दीप्यमानं श्रिया वीरं शक्रादनवमं बलेपारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥१०॥
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥११॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥१२॥
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥१३॥
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥१४॥
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यतिसंभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥१५॥
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थराकैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥१६॥
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे ॥१७॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यतेकुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥१८॥
सा तद्वचनमाज्ञाय सर्वाभरणभूषितावेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥१९॥
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिताप्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥२०॥
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात् ॥२१॥
राजोवाचवरं ददानि ते हन्त तद्गृहाण यदिच्छसिअवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥२२॥
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनःब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे ॥२३॥
मार्कण्डेय उवाच
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥२४॥
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥२५॥
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम्दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥२६॥
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥२७॥
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदासीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥२८॥
ततो वनं गते रामे राजा दशरथस्तदासमयुज्यत देहस्य कालपर्यायधर्मणा ॥२९॥
रामं तु गतमाज्ञाय राजानं च तथागतम्आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥३०॥
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौगृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ॥३१॥
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ॥३२॥
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसनेसकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥३३॥
स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौअन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥३४॥
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितःअग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥३५॥
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशःपौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥३६॥
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्तापसानामलंकारं धारयन्तं धनुर्धरम् ॥३७॥
विसर्जितः स रामेण पितुर्वचनकारिणानन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥३८॥
रामस्तु पुनराशङ्क्य पौरजानपदागमम्प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥३९॥
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितःनदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥४०॥
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥४१॥
रक्षार्थं तापसानां च राघवो धर्मवत्सलःचतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥४२॥
दूषणं च खरं चैव निहत्य सुमहाबलौचक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥४३॥
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनःययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥४४॥
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छितापपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥४५॥
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितःउत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥४६॥
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सःकेनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥४७॥
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवतेकः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥४८॥
आशीविषं घोरतरं पादेन स्पृशतीह कःसिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥४९॥
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषःनिश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥५०॥
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥५१॥
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य चऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥५२॥
त्रिकूटं समतिक्रम्य कालपर्वतमेव चददर्श मकरावासं गम्भीरोदं महोदधिम् ॥५३॥
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननःदयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥५४॥
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननःपुरा रामभयादेव तापस्यं समुपाश्रितम् ॥५५॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 261

0
Adhyaya 261Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0