Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
सखा दशरथस्यासीज्जटायुररुणात्मजःगृध्रराजो महावीर्यः संपातिर्यस्य सोदरः ॥१॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥२॥
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम्ध्रियमाणे मयि कथं हरिष्यसि निशाचरन हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ॥३॥
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतःचक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥४॥
स वध्यमानो गृध्रेण रामप्रियहितैषिणाखड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥५॥
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम्ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥६॥
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥७॥
सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान्तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥८॥
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम्मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥९॥
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥१०॥
कथमुत्सृज्य वैदेहीं वने राक्षससेवितेइत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥११॥
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम्भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥१२॥
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥१३॥
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचःयदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥१४॥
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥१५॥
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुःअभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥१६॥
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौगृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥१७॥
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभेकोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥१८॥
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथातयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥१९॥
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतःतस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥२०॥
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम्संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥२१॥
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम्विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ॥२२॥
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौजग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥२३॥
वने महति तस्मिंस्तु रामः सौमित्रिणा सहददर्श मृगयूथानि द्रवमाणानि सर्वशःशब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥२४॥
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्मेघपर्वतसंकाशं शालस्कन्धं महाभुजम्उरोगतविशालाक्षं महोदरमहामुखम् ॥२५॥
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्विषादमगमत्सद्यः सौमित्रिरथ भारत ॥२६॥
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥२७॥
हरणं चैव वैदेह्या मम चायमुपप्लवःराज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥२८॥
नाहं त्वां सह वैदेह्या समेतं कोसलागतम्द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥२९॥
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैःअभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥३०॥
एवं बहुविधं धीमान्विललाप स लक्ष्मणःतमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥३१॥
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थितेछिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥३२॥
इत्येवं वदता तस्य भुजो रामेण पातितःखड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥३३॥
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बलीसौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् ॥३४॥
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम्गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥३५॥
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनःददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥३६॥
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतःकामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥३७॥
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृपप्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥३८॥
रावणेन हृता सीता राज्ञा लङ्कानिवासिनासुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥३९॥
एषा पम्पा शिवजला हंसकारण्डवायुताऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥४०॥
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सहभ्राता वानरराजस्य वालिनो हेममालिनः ॥४१॥
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्ध्रुवं वानरराजस्य विदितो रावणालयः ॥४२॥
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभःविस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥४३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 263

0
Adhyaya 263Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0