Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
प्रभूतान्नोदके तस्मिन्बहुमूलफले वनेसेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥१॥
रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम्प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ॥२॥
अगाधतोयाः परिखा मीननक्रसमाकुलाःबभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ॥३॥
कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाःसाशीविषघटायोधाः ससर्जरसपांसवः ॥४॥
मुसलालातनाराचतोमरासिपरश्वधैःअन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ॥५॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाःबभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥६॥
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतःविदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ॥७॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलःशुशुभे मेघमालाभिरादित्य इव संवृतः ॥८॥
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥९॥
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाःप्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ॥१०॥
अकृतात्मानमासाद्य राजानमनये रतम्विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥११॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात्वधायानपराद्धानामन्येषां तद्भविष्यति ॥१२॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराःऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ॥१३॥
राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियःतदिदं समनुप्राप्तं फलं तस्यानयस्य ते ॥१४॥
हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भवपश्य मे धनुषो वीर्यं मानुषस्य निशाचर ॥१५॥
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ॥१६॥
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचःश्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ॥१७॥
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराःचतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥१८॥
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥१९॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराःभुवि संभिन्नहृदयाः प्रहारपरिपीडिताः ॥२०॥
स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत्लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ॥२१॥
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदःविशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥२२॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम्भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ॥२३॥
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणःदक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ॥२४॥
करभारुणगात्राणां हरीणां युद्धशालिनाम्कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥२५॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैःनादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥२६॥
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैःतरुणादित्यसदृशैः शरगौरैश्च वानरैः ॥२७॥
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥२८॥
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि चभग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ॥२९॥
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाःचिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ॥३०॥
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदाप्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥३१॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणःनिर्ययुर्विकृताकाराः सहस्रशतसंघशः ॥३२॥
शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसःप्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ॥३३॥
स माषराशिसदृशैर्बभूव क्षणदाचरैःकृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥३४॥
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाःस्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ॥३५॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सहनखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥३६॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाःहता निपतिता भूमौ न मुञ्चन्ति परस्परम् ॥३७॥
रामस्तु शरजालानि ववर्ष जलदो यथातानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ॥३८॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमःआदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥३९॥
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञयाकृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ॥४०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 268

0
Adhyaya 268Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0