Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥१॥
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान्समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥२॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपःपद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥३॥
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम्कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥४॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतःवाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥५॥
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित्किमागमनमित्येवं राजा राजानमब्रवीत् ॥६॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥७॥
अश्वपतिरुवाचसावित्री नाम राजर्षे कन्येयं मम शोभनातां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥८॥
द्युमत्सेन उवाच
च्युताः स्म राज्याद्वनवासमाश्रिता;श्चराम धर्मं नियतास्तपस्विनःकथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ॥९॥
अश्वपतिरुवाचसुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव चन मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ॥१०॥
आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन चअभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ॥११॥
अनुरूपो हि संयोगे त्वं ममाहं तवापि चस्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥१२॥
द्युमत्सेन उवाच
पूर्वमेवाभिलषितः संबन्धो मे त्वया सहभ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥१३॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितःस निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥१४॥
मार्कण्डेय उवाच
ततः सर्वान्समानीय द्विजानाश्रमवासिनःयथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥१५॥
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम्ययौ स्वमेव भवनं युक्तः परमया मुदा ॥१६॥
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम्मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥१७॥
गते पितरि सर्वाणि संन्यस्याभरणानि साजगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥१८॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन चसर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ॥१९॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिःश्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥२०॥
तथैव प्रियवादेन नैपुणेन शमेन चरहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥२१॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम्कालस्तपस्यतां कश्चिदतिचक्राम भारत ॥२२॥
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम्नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥२३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 279

0
Adhyaya 279Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0