Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततो वनगताः पार्थाः सायाह्ने सह कृष्णयाउपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥१॥
प्रिया च दर्शनीया च पण्डिता च पतिव्रताततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥२॥
न नूनं तस्य पापस्य दुःखमस्मासु किंचनविद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥३॥
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचनवनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥४॥
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणःयस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ॥५॥
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणःईदृशं दुःखमानीय मोदते पापपूरुषः ॥६॥
चतुर्णामेव पापानामश्रु वै नापतत्तदात्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥७॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनःदुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ॥८॥
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तमदुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥९॥
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥१०॥
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम्दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ॥११॥
यदपश्यं सभायां त्वां राजभिः परिवारितम्तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥१२॥
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥१३॥
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरादृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ॥१४॥
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशःह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥१५॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम्दीयते भोजनं राजन्नतीव गुणवत्प्रभोतच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥१६॥
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाःअभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥१७॥
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतःअदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥१८॥
भीमसेनमिमं चापि दुःखितं वनवासिनम्ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ॥१९॥
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतसुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥२०॥
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथातं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥२१॥
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुःत्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥२२॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुनाशरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥२३॥
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाःयज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥२४॥
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैःध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥२५॥
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥२६॥
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥२७॥
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतःप्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः ॥२८॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यःतं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥२९॥
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणेनकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३०॥
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिरसहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३१॥
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनःमां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३२॥
नूनं च तव नैवास्ति मन्युर्भरतसत्तमयत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥३३॥
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥३४॥
यो न दर्शयते तेजः क्षत्रियः काल आगतेसर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥३५॥
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचनतेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥३६॥
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यतिअप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ॥३७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 28

0
Adhyaya 28Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0