Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततो गर्भः समभवत्पृथायाः पृथिवीपतेशुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥१॥
सा बान्धवभयाद्बाला तं गर्भं विनिगूहतीधारयामास सुश्रोणी न चैनां बुबुधे जनः ॥२॥
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृतेकन्यापुरगतां बालां निपुणां परिरक्षणे ॥३॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनीकन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥४॥
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम्हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥५॥
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनीमञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ॥६॥
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथाश्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥७॥
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ॥८॥
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जलेउवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ॥९॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रकदिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥१०॥
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनःआगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ॥११॥
पातु त्वां वरुणो राजा सलिले सलिलेश्वरःअन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥१२॥
पिता त्वां पातु सर्वत्र तपनस्तपतां वरःयेन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ॥१३॥
आदित्या वसवो रुद्राः साध्या विश्वे च देवताःमरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ॥१४॥
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु चवेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ॥१५॥
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुःयस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥१६॥
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यतियस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥१७॥
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ॥१८॥
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम्सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥१९॥
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥२०॥
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखेहिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥२१॥
एवं बहुविधं राजन्विलप्य करुणं पृथाअवासृजत मञ्जूषामश्वनद्यास्तदा जले ॥२२॥
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणाधात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥२३॥
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुःविवेश राजभवनं पुनः शोकातुरा ततः ॥२४॥
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम्चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ॥२५॥
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम्स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥२६॥
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम्धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥२७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 292

0
Adhyaya 292Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0