Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
नापदामस्ति मर्यादा न निमित्तं न कारणम्धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥१॥
भीम उवाच
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदान मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥२॥
अर्जुन उवाच
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताःअतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥३॥
सहदेव उवाच
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारतस मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥४॥
वैशंपायन उवाच
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥५॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥७॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥८॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरःगच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥९॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥१०॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहःप्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥१२॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितःअपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१३॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरःअब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ॥१४॥
भ्राता चिरायते तात सहदेव तवाग्रजःतं चैवानय सोदर्यं पानीयं च त्वमानय ॥१५॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यतददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥१६॥
भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितःअभिदुद्राव पानीयं ततो वागभ्यभाषत ॥१७॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहःप्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥१८॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितःअपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१९॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरःभ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शनतौ चैवानय भद्रं ते पानीयं च त्वमानय ॥२०॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुःआमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ॥२१॥
यतः पुरुषशार्दूलौ पानीयहरणे गतौतौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥२२॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितःधनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥२३॥
नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावनेसव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥२४॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवेकिमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥२५॥
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसेततः पास्यसि पानीयं हरिष्यसि च भारत ॥२६॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारययावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥२७॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैःववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥२८॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभअनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह ॥२९॥
यक्ष उवाच
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिबअनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥३०॥
वैशंपायन उवाच
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितःअविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३१॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरःनकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥३२॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारततांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥३३॥
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यतयत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥३४॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितःअमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥३५॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरःततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥३६॥
यक्ष उवाच
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहःप्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥३७॥
वैशंपायन उवाच
एवमुक्तस्ततो भीमो यक्षेणामिततेजसाअविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३८॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभःसमुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥३९॥
अपेतजननिर्घोषं प्रविवेश महावनम्रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥४०॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम्भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ॥४१॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥४२॥
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैःकेतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥४३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 296

0
Adhyaya 296Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0