Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाःक्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥१॥
युधिष्ठिर उवाच
सरस्येकेन पादेन तिष्ठन्तमपराजितम्पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥२॥
वसूनां वा भवानेको रुद्राणामथ वा भवान्अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥३॥
मम हि भ्रातर इमे सहस्रशतयोधिनःन तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥४॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षयेस भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥५॥
यक्ष उवाच
अहं ते जनकस्तात धर्मो मृदुपराक्रमत्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥६॥
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥७॥
अहिंसा समता शान्तिस्तपः शौचममत्सरःद्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥८॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिताद्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके ॥९॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतःआनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥१०॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥११॥
युधिष्ठिर उवाच
अरणीसहितं यस्य मृग आदाय गच्छतितस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥१२॥
धर्म उवाच
अरणीसहितं तस्य ब्राह्मणस्य हृतं मयामृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥१३॥
वैशंपायन उवाच
ददानीत्येव भगवानुत्तरं प्रत्यपद्यतअन्यं वरय भद्रं ते वरं त्वममरोपम ॥१४॥
युधिष्ठिर उवाच
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥१५॥
वैशंपायन उवाच
ददानीत्येव भगवानुत्तरं प्रत्यपद्यतभूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥१६॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥१७॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाःविराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥१८॥
यद्वः संकल्पितं रूपं मनसा यस्य यादृशम्तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥१९॥
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छतजिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥२०॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ॥२१॥
युधिष्ठिर उवाच
देवदेवो मया दृष्टो भवान्साक्षात्सनातनःयं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥२२॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभोदाने तपसि सत्ये च मनो मे सततं भवेत् ॥२३॥
धर्म उवाच
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डवभवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥२४॥
वैशंपायन उवाच
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनःसमेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥२५॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाःआरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥२६॥
इदं समुत्थानसमागमं मह;त्पितुश्च पुत्रस्य च कीर्तिवर्धनम्पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ॥२७॥
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शनेकदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ॥२८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 298

0
Adhyaya 298Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0