Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचःउक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥१॥
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युतददामि देयमित्येव यजे यष्टव्यमित्युत ॥२॥
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्गृहानावसता कृष्णे यथाशक्ति करोमि तत् ॥३॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात्आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य चधर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥४॥
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छतियश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥५॥
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाःधर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥६॥
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनःवेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥७॥
वेदाध्यायी धर्मपरः कुले जातो यशस्विनिस्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥८॥
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतःशास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥९॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाःमार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥१०॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकःअन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥११॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥१२॥
एते हि धर्ममेवादौ वर्णयन्ति सदा ममकर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥१३॥
अतो नार्हसि कल्याणि धातारं धर्ममेव चरजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥१४॥
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छतिआत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥१५॥
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्एतावान्मन्यते बालो मोहमन्यत्र गच्छति ॥१६॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कतेध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥१७॥
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकःकामलोभानुगो मूढो नरकं प्रतिपद्यते ॥१८॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यतेअशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥१९॥
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन्सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥२०॥
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाःपुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥२१॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥२२॥
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिःअप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥२३॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः ॥२४॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव चदानमार्जवमेतानि यदि स्युरफलानि वै ॥२५॥
नाचरिष्यन्परे धर्मं परे परतरे च येविप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥२६॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाःईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥२७॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवेधर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥२८॥
स चायं सफलो धर्मो न धर्मोऽफल उच्यतेदृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥२९॥
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम्वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥३०॥
एतावदेव पर्याप्तमुपमानं शुचिस्मितेकर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥३१॥
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयःतेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा ॥३२॥
कर्मणामुत पुण्यानां पापानां च फलोदयःप्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥३३॥
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाःरक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥३४॥
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाःप्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥३५॥
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताःयष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥३६॥
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम्ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ॥३७॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतुव्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥३८॥
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपःशिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ॥३९॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्उत्तमं दैवतं कृष्णे मातिवोचः कथंचन ॥४०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 32

0
Adhyaya 32Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0