Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषिन त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात् ॥१॥
अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः ॥२॥
महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान्अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन ॥३॥
अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्चशक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥४॥
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धःन ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ॥५॥
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन्दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ॥६॥
त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नःयन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ॥७॥
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रोअथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ॥८॥
त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्मअन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ॥९॥
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान्ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ॥१०॥
वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान्वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ॥११॥
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वेइत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥१२॥
सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत्उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन् ॥१३॥
तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोःआर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥१४॥
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षःबाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ॥१५॥
प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानःप्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ ॥१६॥
भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वायद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ॥१७॥
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्येकालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ॥१८॥
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वामहागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ॥१९॥
श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्तेमित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ॥२०॥
मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्चराज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ॥२१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 35

0
Adhyaya 35Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0