Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥१॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥२॥
एवं संपूजितो जिष्णुरुवास भवने पितुःउपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥३॥
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥४॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवःपुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥५॥
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगतेनृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥६॥
वादित्रं देवविहितं नृलोके यन्न विद्यतेतदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥७॥
सखायं प्रददौ चास्य चित्रसेनं पुरंदरःस तेन सह संगम्य रेमे पार्थो निरामयः ॥८॥
कदाचिदटमानस्तु महर्षिरुत लोमशःजगाम शक्रभवनं पुरंदरदिदृक्षया ॥९॥
स समेत्य नमस्कृत्य देवराजं महामुनिःददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥१०॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरेनिषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥११॥
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥१२॥
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताःय एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् ॥१३॥
तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनःलोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥१४॥
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥१५॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजःअस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥१६॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥१७॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौताविमावभिजानीहि हृषीकेशधनंजयौ ॥१८॥
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिःतदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥१९॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव चयतः प्रववृते गङ्गा सिद्धचारणसेविता ॥२०॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युतीभूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥२१॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इतिविप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥२२॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताःदेवान्न गणयन्ते च तथा दत्तवरा हि ते ॥२३॥
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाःसर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥२४॥
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनःकपिलो नाम देवोऽसौ भगवानजितो हरिः ॥२५॥
येन पूर्वं महात्मानः खनमाना रसातलम्दर्शनादेव निहताः सगरस्यात्मजा विभो ॥२६॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तमपार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥२७॥
अयं तेषां समस्तानां शक्तः प्रतिसमासनेतान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥२८॥
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम्काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥२९॥
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरःनोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥३०॥
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणेभीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥३१॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाःनृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥३२॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वरभ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥३३॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरःराज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥३४॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलेत्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥३५॥
गिरिदुर्गेषु हि सदा देशेषु विषमेषु चवसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥३६॥
स तथेति प्रतिज्ञाय लोमशः सुमहातपाःकाम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥३७॥
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम्तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥३८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 45

0
Adhyaya 45Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0