Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
जनमेजय उवाच
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसःधृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ॥१॥
वैशंपायन उवाच
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतःद्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥२॥
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतःकच्चित्तवापि विदितं यथातथ्येन सारथे ॥३॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयःमम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥४॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनःत्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥५॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥६॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताःयेषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ॥७॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनःअनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ॥८॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणेमहान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥९॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुःअमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥१०॥
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम्सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥११॥
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताःवधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ॥१२॥
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यतेमन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥१३॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥१४॥
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजयन तु कुर्युः शराः शेषमस्तास्तात किरीटिना ॥१५॥
यथा हि किरणा भानोस्तपन्तीह चराचरम्तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥१६॥
अपि वा रथघोषेण भयार्ता सव्यसाचिनःप्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥१७॥
यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटीसृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ॥१८॥
संजय उवाच
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रतिसर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥१९॥
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसःदृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥२०॥
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाःकर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥२१॥
श्रुतं हि ते महाराज यथा पार्थेन संयुगेएकादशतनुः स्थाणुर्धनुषा परितोषितः ॥२२॥
कैरातं वेषमास्थाय योधयामास फल्गुनम्जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥२३॥
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥२४॥
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥२५॥
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥२६॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम्द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥२७॥
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत्दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥२८॥
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पयात्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥२९॥
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसःसर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥३०॥
मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगेअन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥३१॥
धृतराष्ट्र उवाच
किं कृतं सूत कर्णेन वदता परुषं वचःपर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥३२॥
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसःयेषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥३३॥
ममापि वचनं सूत न शुश्रूषति मन्दभाक्दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ॥३४॥
ये चास्य सचिवा मन्दाः कर्णसौबलकादयःतेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥३५॥
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसानिर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ॥३६॥
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताःदिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥३७॥
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनःहरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ॥३८॥
इदं च सुमहच्चित्रमर्जुनस्येह संजयमहादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥३९॥
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुराफल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥४०॥
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवःक्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥४१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 46

0
Adhyaya 46Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0