Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतःअब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥१॥
देवपुत्रौ महाभागौ देवराजसमद्युतीनकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥२॥
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौशीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥३॥
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनिस्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौन शेषमिह पश्यामि तदा सैन्यस्य संजय ॥४॥
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौद्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥५॥
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसःयुधि सत्याभिसंधेन वासुदेवेन रक्षिताःप्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥६॥
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दनन शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥७॥
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमःशैक्यया वीरघातिन्या गदया विचरिष्यति ॥८॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेःगदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥९॥
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगःस्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥१०॥
संजय उवाच
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितःसमर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥११॥
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनःत्वरितः काम्यके पार्थान्समभावयदच्युतः ॥१२॥
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाःविराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥१३॥
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान्चारेण विदितं सर्वं तन्मया वेदितं च ते ॥१४॥
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनःसारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥१५॥
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान्कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥१६॥
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव हराजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥१७॥
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥१८॥
सागरानूपगांश्चैव ये च पत्तनवासिनःसिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥१९॥
पश्चिमानि च राज्यानि शतशः सागरान्तिकान्पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥२०॥
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथाजागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥२१॥
एते चान्ये च बहवो ये च ते भरतर्षभआगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥२२॥
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणीआदाय जीवितं तेषामाहरिष्यामि तामहम् ॥२३॥
रामेण सह कौरव्य भीमार्जुनयमैस्तथाअक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन चधृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥२४॥
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारतदुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥२५॥
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥२६॥
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमेशृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥२७॥
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दनअमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥२८॥
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशवप्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥२९॥
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदःधृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसाकेशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥३०॥
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतःदुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥३१॥
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदामांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ॥३२॥
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथाउत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ॥३३॥
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतलेक्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥३४॥
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षितातेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥३५॥
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाःसर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥३६॥
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥३७॥
रामश्च कृष्णश्च धनंजयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौमाद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ॥३८॥
एतान्सर्वाँल्लोकवीरानजेया;न्महात्मनः सानुबन्धान्ससैन्यान्को जीवितार्थी समरे प्रत्युदीया;त्क्रुद्धान्सिंहान्केसरिणो यथैव ॥३९॥
धृतराष्ट्र उवाच
यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्रध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः ॥४०॥
मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम्असंशयं भविता युद्धमेत;द्गते काले पाण्डवानां यथोक्तम् ॥४१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 48

0
Adhyaya 48Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0